|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.24. अध्यायः 024
Mahabharata - Virata Parva - Chapter Topics
द्रौपदीभीमसंवादः ॥ 1 ॥ द्रौपद्या भीमंप्रति हटात्कीचकसंहारचोदना ॥ 2 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-24-0x(3085)(29269)
आश्वासयंस्तां पाञ्चालीं भीमसेन उवाच ह।
शृणु भद्रे वरारोहे क्रोधात्तत्र तु चिन्तितम् ॥ 1 ॥ 4-24-1(29270)
त्वं वै सभागतां दृष्ट्वा मात्स्यानां कदनं महत् ।
कर्तुकामेन भद्रं ते वृक्षश्चावेक्षितो मया ॥ 2 ॥ 4-24-2(29271)
तत्र मां धर्मराजस्तु कटाक्षेण न्यवारयत्।
तज्ज्ञात्वाऽवाङ्भुखस्तूष्णीमास्थितोस्मि महानसं ॥ 3 ॥ 4-24-3(29272)
शृणुष्वान्यत्प्रतिज्ञातं यद्वदामीह भामिनि ।
धिगस्तु मे बाहुबलं गाण्डीवं फल्गुनस्य च।
यत्ते रक्तौ पुरा भूत्वा पाणी कृतकिणाविमौ ॥ 4 ॥ 4-24-4(29273)
तदद्य मां तु तपति यत्कृतं न मया पुरा।
सभायां स्म विराटस्य करोमि कदनं महत् ॥ 5 ॥ 4-24-5(29274)
तत्र मे कारणं भाति कौन्तेयो यत्प्रतीक्षते।
तदहं तस्य विज्ञाय स्थितो धर्मस्य शासने ॥ 6 ॥ 4-24-6(29275)
यच्च राज्यात्प्रच्यवनं कुरूणामवधश्च यः।
सुयोधनस्य कर्णस्य शकुनेः सौबलस्य च ॥ 7 ॥ 4-24-7(29276)
दुःशासनस्य पापस्य यन्मया न हृतं शिरः ।
तन्मां दहति कल्याणि हृदि शल्यमिवार्पितम् ॥ 8 ॥ 4-24-8(29277)
अपि चान्यद्वरारोहे स्मरिष्यसि वचो मम।
पुण्ये तीरे सरस्वत्या यत्प्रतिष्ठाम संगताः ।
तत्राहमब्रवं कृष्णे सर्वक्लेशाननुस्मरन् ॥ 9 ॥ 4-24-9(29278)
न चाहमनुगच्छेयं धर्मराजं युधिष्ठिरम्।
धनञ्जयं च पाञ्चालि माद्रिपुत्रौ च भ्रातरौ।
कृत्वैतां च मतिं कृष्णे युधिष्ठिरमगर्हयम् ॥ 10 ॥ 4-24-10(29279)
परुषं वचनं श्रुत्वा मम धर्मात्मजस्तदा।
हीमान्वाक्यमहीनार्थं ब्रुवन्राजा युधिष्ठिरः ।
सर्वानन्वनयद्भ्रातॄन्मुनेर्धौम्यस्य पश्यतः ॥ 11 ॥ 4-24-11(29280)
मा रोदी राज्ञि लोकानां सर्वागमगुणान्विता।
रक्षितव्यं सहास्माभिः सत्यमप्रतिमं भुवि ॥ 12 ॥ 4-24-12(29281)
अनुनीतेषु चास्मासु अनुनीता त्वमप्यसि।
मा धर्मं जहि सुश्रोणि क्रोधं जहि महामते ॥ 13 ॥ 4-24-13(29282)
इमं तु समुपालम्भं त्वत्तो राजा युधिष्ठिरः ।
शृणुयाद्यदि कल्याणि कृत्स्नं जह्यात्स जीवितं ॥ 14 ॥ 4-24-14(29283)
धनञ्जयो वा सुश्रोणि यमौ चापि सुमध्यमे।
लोकान्तरगतेष्वेषु नाहं शक्ष्यामि जीवितुम् ॥ 15 ॥ 4-24-15(29284)
धर्मं शृणुष्व पाञ्चालि यत्ते वक्ष्यामि मानिनि ॥ 16 ॥ 4-24-16(29285)
दुहिता जनकस्यासीद्वैदेही यदि ते श्रुता।
पतिमन्वचरत्सीता महारण्यनिवासिनम् ॥ 17 ॥ 4-24-17(29286)
वसन्ती च महारण्ये रामस्य महिषी प्रिया।
रावणेन हृता सीता राक्षसीभिश्च तर्जिता।
सा क्लिश्यमाना सुश्रोणी राममेवान्वपद्यत ॥ 18 ॥ 4-24-18(29287)
लोपामुद्रा तथा भीरु भर्तारमृषिसत्तमम्।
भगवन्तमगस्त्यं सा वनायैवान्वपद्यत ॥ 19 ॥ 4-24-19(29288)
सुकन्या नाम शर्यातेर्भार्गवच्यवनं वने।
वल्मीकभूतं साध्वी तमन्वपद्यत भामिनी ॥ 20 ॥ 4-24-20(29289)
नालायनी चेन्द्रसेना रूपेणाप्रतिमा भुवि।
पतिमन्वचरद्वृद्धं पुरा वर्षसहस्रिणम् ॥ 21 ॥ 4-24-21(29290)
नलं राजानमेवाथ दमयन्ती वनान्तरे।
अन्वगच्छत्पुरा कृष्णे तथा भर्तॄंस्त्वमन्वगाः ॥ 22 ॥ 4-24-22(29291)
यथैताः कीर्तिता नार्यो रूपवत्यः पतिव्रताः।
तथा त्वमपि कल्याणि सर्वैः समुदिता गुणैः ॥ 23 ॥ 4-24-23(29292)
मा दीर्घं क्षम कालं त्वं त्रिंशद्रात्रमनिन्दिते।
पूर्णे त्रयोदशे वर्षे राज्ञां राज्ञी भविष्यसि ॥ 24 ॥ 4-24-24(29293)
सत्येन ते शपे चाहं भविता नान्यथेति च ॥ 25 ॥ 4-24-25(29294)
सर्वासां परमस्त्रीणां प्रामाण्यं कर्तुमर्हसि।
सर्वेषां च नरेन्द्राणां मूर्ध्नि स्थास्यसि भामिनि ॥ 26 ॥ 4-24-26(29295)
भर्तृभक्त्या च वृत्तेन भोगानाप्स्यसि दुर्लभान् ।
यातायां तु प्रतिज्ञायां महान्तं भोगमाप्नुयाः ॥ 27 ॥ 4-24-27(29296)
गुरुभक्तिकृतं ज्ञात्वा राज्ञां मूर्ध्नि स्थिता भवेः ॥ 28 ॥ 4-24-28(29297)
द्रौपद्युवाच। 4-24-29x(3086)
आर्तप्रलापा कौन्तेय न राजानमुपालभे।
अपारयन्त्या दुःखानि कृतं बाष्पप्रमोचनम् ॥ 29 ॥ 4-24-29(29298)
इदं तु दुःखं कौन्तेय ममासद्यं निबोध तत् ॥ 30 ॥ 4-24-30(29299)
योऽयं राज्ञो विराटस्य सूतपुत्रस्तु कीचकः।
स्यालो नाम प्रवादेन भोजस्त्रैगर्तदेशजः ॥ 31 ॥ 4-24-31(29300)
त्यक्तधर्मो नृशंसश्च सर्वार्थेषु च वल्लभः ।
नित्यमेवाह दुष्टात्मा भार्या मे भव शोभने ।
अविनीतः सुदुष्टात्मा मामनाथेति चिन्तयन् ॥ 32 ॥ 4-24-32(29301)
किमुक्तेन व्यतीतेन भीमसेन महाबल।
प्रत्युपस्थितकालस्य कार्यस्यानन्तरो भव ॥ 33 ॥ 4-24-33(29302)
ममेह भीम कैकेयी रूपाद्धि भयशङ्किता।
नित्यमुद्विजते राजा कथं नेयादिमामिति ॥ 34 ॥ 4-24-34(29303)
तस्या विदित्वा तं भावं स्वयं चानृतदर्शनः ।
कीचकोपि च दुष्टात्मा पुनः प्रार्थयते च मां ॥ 35 ॥ 4-24-35(29304)
तमहं कुपिता भीम पुनः कोपं नियम्य च।
अब्रवं कामसंमूढमात्मानं रक्ष कीचक ॥ 36 ॥ 4-24-36(29305)
गन्धर्वाणामहं भार्या पञ्चानां महिषी प्रिया ।
ते त्वां निहन्युर्दुर्धर्षाः शूराः साहसकारिणः ॥ 37 ॥ 4-24-37(29306)
एवमुक्तस्तु दुष्टात्मा कीचकः प्रत्युवाच ह।
नाहं बिभेमि भैरन्ध्रि गन्धर्वाणां शुचिस्मिते ॥ 38 ॥ 4-24-38(29307)
शतं सहस्रमपि वा गन्धर्वाणामहं रणे।
समागतं हनिष्यामि त्वं भीरु कुरु मे क्षणम् ॥ 39 ॥ 4-24-39(29308)
इत्युक्ता चाब्रवं सूतं कामातुरमहं पुनः।
न त्वं प्रतिबलस्तेषां गन्धर्वाणां यशस्विनाम् ॥ 40 ॥ 4-24-40(29309)
धर्मे स्थिताऽस्मि सततं कुलशीलसमन्विता।
नेच्छामि किंचिद्वध्यं त्वां तस्माज्जीवसि कीचक ॥ 41 ॥ 4-24-41(29310)
एवमुक्तस्तु दुष्टात्मा प्रहस्य स्वनवत्ततः।
न तिष्ठिति स सन्मार्गे न च धर्मं बुभूषति ॥ 42 ॥ 4-24-42(29311)
पापात्मा पापकारी च कामराजवशानुगः ।
अविनीतश्च दुष्टात्मा प्रत्याख्यातः पुनः पुनः ॥ 43 ॥ 4-24-43(29312)
दर्शनेदर्शने हन्याद्यदि जह्यां च जीवितम्।
धर्मे प्रयतमानानां महान्धर्मो नशिष्यति ॥ 44 ॥ 4-24-44(29313)
समयं रक्षमाणानां दारा वो न भवन्ति च ।
भार्याजां रक्ष्यमाणायां प्रजा भवति रक्षिता।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ 45 ॥ 4-24-45(29314)
वंदतां वर्णधर्मांश्च ब्राह्मणानां च मे श्रुतम् ।
क्षत्रियस्य सदा धर्मो नान्यो दस्युनिबर्हणात् ॥ 46 ॥ 4-24-46(29315)
पश्यतो धर्मराजस्य कीचको माऽन्वधावत ।
तवेव च समक्षं वै भीमसेन महाबल ॥ 47 ॥ 4-24-47(29316)
त्वया चाहं परित्राता भीम तस्माञ्जटासुरात् ॥ 48 ॥ 4-24-48(29317)
जयद्रथं तथैव त्वमजैषीर्भ्रातृभिः सह।
जहीममपि पापिष्ठं योयं मामवमन्यते ।
कीचको राजवाल्लभ्याच्छोककृन्मम भारत ॥ 49 ॥ 4-24-49(29318)
कीचकं कामसन्तप्तं भिन्धि कुम्भमिवाश्मनि ।
यो निमित्तमनर्थानां बहूनां मम भारत ॥ 50 ॥ 4-24-50(29319)
तं चेञ्जीवन्तमादित्यः प्रातरभ्युदयिष्यति ।
विषमालोड्य पास्यामि मा कीचकवशंगमम् ॥ 51 ॥ 4-24-51(29320)
श्रेयो हि मरणं मह्यं भीमसेन तवाग्रतः ।
इत्युक्त्वा प्रारुदत्कृष्णा भीमस्योरसि संश्रिता ॥ 52 ॥ 4-24-52(29321)
भीमश्च तां परिष्वज्य महत्सान्त्वं प्रयुज्य च।
कीचकं मनसाऽगच्छत्सृक्किणी परिलेलिहन् ॥ 53 ॥ 4-24-53(29322)
आश्वासयित्वा बहुशो भृशमार्तां सुमध्यमाम्।
हेतुतत्वार्थसंयुक्तैर्वचोभिर्द्रुपदात्मजाम् ॥ 54 ॥ 4-24-54(29323)
प्रमृज्य वदनं तस्याः पाणिनाऽश्रुसमाकुलम्।
उवाच चैनां दुःखार्तां भीमः क्रोधसमन्वितः ॥ 55 ॥ ॥ 4-24-55(29324)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि चतुर्विशोऽध्यायः ॥ 24 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-24-24 मा दीर्घं क्षम कालं त्वं मासमर्धं च संमितमिति झo पाठः ॥ 24 ॥ 4-24-26 प्राधान्यं कर्तुमर्हसि इति खo पाठः ॥ 26 ॥ 4-24-33 दुःखस्यान्तकरो भवेति धo पाठः ॥ 33 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|